वांछित मन्त्र चुनें

उ॒त नो॑ रु॒द्रा चि॑न्मृळताम॒श्विना॒ विश्वे॑ दे॒वासो॒ रथ॒स्पति॒र्भग॑: । ऋ॒भुर्वाज॑ ऋभुक्षण॒: परि॑ज्मा विश्ववेदसः ॥

अंग्रेज़ी लिप्यंतरण

uta no rudrā cin mṛḻatām aśvinā viśve devāso rathaspatir bhagaḥ | ṛbhur vāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ ||

पद पाठ

उ॒त । नः॒ । रु॒द्रा । चि॒त् । मृ॒ळ॒ता॒म् । अ॒श्विना॑ । विश्वे॑ । दे॒वासः॑ । रथः॒पतिः॑ । भगः॑ । ऋ॒भुः । वाजः॑ । ऋ॒भु॒क्ष॒णः॒ । परि॑ऽज्मा । वि॒श्व॒ऽवे॒द॒सः॒ ॥ १०.९३.७

ऋग्वेद » मण्डल:10» सूक्त:93» मन्त्र:7 | अष्टक:8» अध्याय:4» वर्ग:27» मन्त्र:2 | मण्डल:10» अनुवाक:8» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (उत) तथा (रुद्रा चित्-अश्विना) वक्ता अध्यापक और उपदेशक (नः) हमें (मृळताम्) सुखी करें (विश्वेदेवासः) विद्याविषय में प्रवेश पाये हुए विद्वान् (रथस्पतिः-भगः) शरीर रथ का स्वामी वैद्य सुखभाजक-सुख पहुँचानेवाला (ऋभुः) मेधावी (वाजः) बलवान् (ऋभुक्षणः) मेधावी छात्रों को बसानेवाला (परिज्मा) परिव्राट् संन्यासी (विश्ववेदसः) सब धनवाले हमें सुखी करें ॥७॥
भावार्थभाषाः - अध्यापक और उपदेशक, अन्य विद्वान्, स्वस्थ रखनेवाला वैद्य, अच्छे छात्रों को वास देनेवाले संन्यासी और धनसम्पन्न जन लोगों को सुख देनेवाले हों ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (उत) अपि खलु (रुद्रा चित्-अश्विना) वक्तारावपि अध्यापकोपदेशकौ (नः) अस्मभ्यं (मृळताम्) सुखयतां (विश्वेदेवासः) विद्याविषये प्राप्तप्रवेशाः-विद्वांसः (रथस्पतिः भगः) शरीररथस्य स्वामी चिकित्सकः सुखभाजकः (ऋभुः) मेधावी “ऋभुः-मेधाविनाम” [निरु० ३।१५] (वाजः) बलवान् “वाजः बलनाम” [निघ० २।९] ‘अकारो मत्वर्थीयश्छान्दसः’ (ऋभुक्षणः) मेधाविनां छात्राणां निवासयिता (परिज्मा) परितः सर्वत्र गन्ता परिव्राट् (विश्ववेदसः) सर्वधनवन्तोऽस्मान् सुखयन्तु ॥७॥